Monday 4 July 2011

અચ્યુતાષ્ટકં - આદિ શંકરાચાર્ય

કવિ - આદિ શંકરાચાર્ય
સ્વર - યશુદાસ




अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं
श्रीधरं माधवं गोपिका-वल्लभं जानकीनायकं रामचन्द्रं भजे ॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं
इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं संदधे ॥

विष्णवे जिष्णवे शङ्किने चक्रिणे रूक्मिणीरागिणे जानकीजानये
वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥

राक्षसक्षोभित: सीतया शोभितो दण्डकारण्यभू-पुण्यताकारणः
लक्ष्मणोनान्वितो वानरैस्सेवितो अगस्त्यसंपूजितो राघवः पातु माम् ॥

धेनुकारिष्टकाऽनिष्टक्रुद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ॥

विद्युदुद्योतवत्-प्रस्फुरद्-वाससं प्रावृडंभोदवत्- प्रोल्लसद्विग्रहं
वन्यया मालया शोभितोरः स्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥

कुन्चितैः कुन्तलै-भ्रार्जमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः
हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे ॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहं
वृत्ततः सुन्दरं कर्तृविश्र्वंभरः तस्य वश्यो हरिजार्यते सत्वरम् ॥

0 પ્રત્યાઘાતો:

Copyright 2009-2013 © With Respective Creators, Ahmedabad, Gujarat, India. All Right Reserved.

No song uploaded on this blog can be downloaded by using any techniques. If any one downloads song without permission, blog will not be responsible for copyright infringement.

Back to TOP